साधर्म्येणावतिष्ठेते प्रधानपुरुषौ तदा
अनुद्रिक्तावनुचरौ तेन प्रोक्तौ परस्परम्
सत्त्ववृद्धौ स्थितिरभूद् ध्रुवं पद्म शिखास्थितम्
रजः प्रवर्तकं तच्च बीजेष्विव यथा जलम्
गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो ज्ञेया हि सादरे
सत्त्वं विष्णू रजो ब्रह्मा तमो रुद्रः प्रजापतिः
जायते च यतश्चत्रा लोकसृष्टिर्महोजसः
सत्त्वप्रकाशको विष्णुः स्थितित्वेन व्यवस्थितः
एत एव त्रयो वेदा एत एव त्रजो ऽग्नयः
परस्परेण वर्तन्ते प्रेरयन्ति परस्परम्
क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम्
अदृष्टाधिष्ठितात्पूर्वे तस्मात्सदसदात्मकात्
तस्मात्तमोव्यक्तमयं क्षेत्रज्ञो ब्रह्मसंज्ञकः
तेजसाप्रतिमो धीमानव्यक्तः संप्रकाशकः
ज्ञानेनाप्रतिमेनेह वैराग्येण च सप्ततिः
वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वाच्च भावतः
सहस्रमूर्धा पुरुषस्तिस्रो ऽवस्थाःस्वयंभुवः
सात्त्विकः पुरुषत्वे च गुणवृतं स्वयंभुवः
पुरुषत्वे उदासीनस्तिस्रो ऽवस्थाः स्वयंभुवः
पुरुषः पुण्डरीकाक्षो रूपेण परमात्मनः
योगीश्वरः शरीराणि करोति विकरोतिच
त्रिधा यद्वर्तते लोके तस्मात्र्रिगुण उच्यते
यदा शेते तदार्धाते यद्भुङ्क्ते विषयान्प्रभुः
ऋषिः सर्वगतश्चात्र शरीरे सो ऽभ्ययात्प्रभुः
भगवानग्रसद्भावान्नागो नागस्वसंश्रयात्
सर्वज्ञः सर्वविज्ञानात्सर्वःसर्वंयतस्ततः
त्रिधा विभज्य चात्मानं सकलः संप्रवर्त्तते
सो ऽग्रे हिरण्यगर्भः सन् प्रादुर्भूतः स्वयं प्रभुः
तस्माद्धिरण्यगर्भश्च पुराणेषु निरुच्यते
न शक्यः परिसंख्यातुं मनुवर्षशतैरपि