अनन्तबलवीर्याय भूतानां पतये नमः
गङ्गा सलिलधाराय चाधाराय गुणात्मने
कन्दर्पाय नमस्तुभ्यं नमो ऽस्तु परमात्मने
दण्डहस्ताय कालाय पाशहस्ताय वै नमः
भूतं भव्यं भविष्यच्च स्थावरं चङ्गमं च यत्
शेभो पाहि च भद्रं ते प्रसीद भगवंस्ततः
तत्सर्वं भगवानेव कुरुते योगमायया
याचन्ते तपसा युक्ताः पश्यामस्त्त्वां यथा पुरा
नमो दिग्वाससे नित्यं किङ्किणीजालमालिने
अरूपाय सुरूपाय विश्वरूपाय ते नमः
सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः
नीलकण्ठाय देवाय चिताभस्माङ्गरागिणे
श्मशानवासिने नित्यं प्रेतरूपाय वै नमः
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यते
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा
आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः
सर्वथा वर्त्तमानो ऽपि योयो भावो भविष्यति
कामः क्रोधश्च लोभश्च विषादो मद एव च
महासंहरणे प्राप्ते त्वया देव कृतात्मना
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः
यानि चान्यानिभूतानि स्थावराणि चराणि च
अस्माकं दह्यमानानां त्राता भव सुरेश्वर
महेश्वर महाभाग प्रभो शुभनिरीक्षक
रूपकोटिसहस्रेषु रूपकोटिशतेषु च
ततस्तु भगवानीश इदं वचनमब्रवीत्
यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः
न चेमानप्रियं ब्रूयादमुत्रेह हितार्थवान्
एवं चरथ भद्रं वो मत्तः सिद्धिमवाप्स्यथ
अपगतभयलोभमोहचिन्ताः सह पतिताः महसा शिरोभिरूहुः
गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः