एष देवो महादेवो विज्ञेयस्तु महेश्वरः
देवानां च ऋषीणां च पितृणां चैव स प्रभुः
संहरत्येष भगवान् कालो भूत्वा महेश्वरः
एष चिक्री च वक्षोजश्रीवत्सकृतलक्षणः
द्वापरे चैव कालाग्निर्धर्मकेतुः कलौ स्मृतः
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकः
यत्र तिष्ठन्ति तद्ब्रह्मयोगेन तु समन्वितम्
आराधयत विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः
तादृक्प्रतिकृतिं कृत्वा शूलपाणिं प्रपद्यत
यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रमश्यति
आस्थिता वीतशोकास्ते देवदारुवने ततः
स्थण्डिलेषु विचित्रेषु पर्वतेषु गुहासु च
तदेव रूपमास्थाय देवस्तद्वनमागतः
परभृतपरिपूर्णचारुशब्दं प्रविशति तद्वनमाश्रमं महेशः
ततस्तं मुनयः सर्वे तुष्टुवुः सुसमाहिताः
सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः
अज्ञानाद्देवदेवस्य यदस्माभिग्नुष्ठितम्
चरितानि विचित्राणि गुह्यानि गहनानि च
स्वागतं ते न जानीमो गतिं नैव च नैव च
स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम्
अनन्तबलवीर्याय भूतानां पतये नमः
गङ्गा सलिलधाराय चाधाराय गुणात्मने
कन्दर्पाय नमस्तुभ्यं नमो ऽस्तु परमात्मने
दण्डहस्ताय कालाय पाशहस्ताय वै नमः
भूतं भव्यं भविष्यच्च स्थावरं चङ्गमं च यत्
शेभो पाहि च भद्रं ते प्रसीद भगवंस्ततः
तत्सर्वं भगवानेव कुरुते योगमायया
याचन्ते तपसा युक्ताः पश्यामस्त्त्वां यथा पुरा
नमो दिग्वाससे नित्यं किङ्किणीजालमालिने
अरूपाय सुरूपाय विश्वरूपाय ते नमः