करवद्गायसे यस्मात्खरस्तस्माद्भविष्यसि
यथा वैच्छंस्तथा सर्वे क्रुद्धास्ते मुनयः समम्
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे
न द्योतन्ते प्रकाशेन तद्वत्तेजांसि शङ्करे
समृद्धः श्रेयसां यौनिर्यज्ञो वै नाशमाप्तवान्
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम्
ऋषीणां चैव शापेन नहुषः सर्पतां गतः
धर्मश्चात्र प्रशप्तो वै माण्डव्येन महात्मना
वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम्
ततस्ते ऋषयः सर्वे परस्परमथाब्रुवन्
ब्रह्मचर्य रतानां च वने वा वनवासिनाम्
अनयस्तु महानेष येनायं मोहितो द्विजाः
वदस्व वाचा मधुरं वस्त्रमेकं समाश्रय
ऋषीणां तद्वचः श्रुत्वा भगवान्भगनेत्रहा
न शक्यमिदमस्मा कं लिङ्गं पातयितुं बलात्
पातयेयमहं चैतल्लिङ्गं भो द्विजसत्तमाः
एवमुक्तो महादेवः प्रत्दृष्टेन्द्रियचेष्टितः
अन्तर्हिते भगवति तथा लिङ्गे कृते भवे
व्याकुलं च तदा सर्वं न प्रकाशेत किञ्चन
नक्षत्राणि ग्रहाश्चैव विपरीता विजज्ञिरे
क्रतवो न व्यवर्त्तन्त ऋतुकालाभिगामिनाम्
नष्टप्रभाववीर्याश्च नष्टतेजस एव च
ते तुसर्वे समागम्य ब्रह्मलोकमुपागताः
पादयोः पतिताः सर्वे शिववृत्तान्तमूचिरे
उलूकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
स्नुषाणां च दुहितॄणां पुत्रीणां च विशेषतः
उन्मत्त इति विज्ञाय सो ऽस्माभिरवमानितः
तस्य क्रोधप्रसादार्थं वयं ते शरणं गताः
ऋषीणां तद्वचः श्रुत्वा ध्यानाद्विज्ञाय चेश्वरम्