शैवाल भोजनाः केचित्केचिदन्तर्जलेशयाः
दन्तोलूखलिनश्चान्ये त्वश्मकुट्टास्तथा परे
कालं नयन्ति तपसा तीव्रेण च महाधियः
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
मुखमङ्गारवर्णेन शुक्लेन च विभूषितम्
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः
आश्रमे ऽभ्यागतो ऽभीक्ष्णं या चते च पुनः पुनः
वृषनादं प्रगर्जन्वै खरनादं ननाद च
ततस्ते मुनयः क्रुद्धाः क्रोधेन कलुषीकृताः
करवद्गायसे यस्मात्खरस्तस्माद्भविष्यसि
यथा वैच्छंस्तथा सर्वे क्रुद्धास्ते मुनयः समम्
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे
न द्योतन्ते प्रकाशेन तद्वत्तेजांसि शङ्करे
समृद्धः श्रेयसां यौनिर्यज्ञो वै नाशमाप्तवान्
प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः
ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम्
ऋषीणां चैव शापेन नहुषः सर्पतां गतः
धर्मश्चात्र प्रशप्तो वै माण्डव्येन महात्मना
वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम्
ततस्ते ऋषयः सर्वे परस्परमथाब्रुवन्
ब्रह्मचर्य रतानां च वने वा वनवासिनाम्
अनयस्तु महानेष येनायं मोहितो द्विजाः
वदस्व वाचा मधुरं वस्त्रमेकं समाश्रय
ऋषीणां तद्वचः श्रुत्वा भगवान्भगनेत्रहा
न शक्यमिदमस्मा कं लिङ्गं पातयितुं बलात्
पातयेयमहं चैतल्लिङ्गं भो द्विजसत्तमाः
एवमुक्तो महादेवः प्रत्दृष्टेन्द्रियचेष्टितः
अन्तर्हिते भगवति तथा लिङ्गे कृते भवे
व्याकुलं च तदा सर्वं न प्रकाशेत किञ्चन