नानारत्नविचित्राङ्गो नानामाल्यानुलेपनः
व्यालय ज्ञोपवीती च सुराणामभयङ्करः
मुक्तो हासस्तदा तेन सर्वमापूरयञ्जगत्
अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः
ततः प्रहृष्टमनसौ प्रणतौ पादयोः प्रभोः
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर
एवमुक्त्वा स भगवांस्तत्रैवातरधाद्विभुः
एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम्
महादेव नमस्ते ऽस्तु महेश्वर नमो ऽस्तु ते
नमस्कारं प्रकुर्वाणाः शङ्कराय महात्मने
कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम्
महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः
चकार वेषं विकृतं येन बुद्धा महर्षयः
आराधयन्प्रसादार्थं नैषां तुष्टः पुनर्भवः
तत्सर्वं कथयस्वेह त्वं नो बुद्धिमतां वरः
निर्म्मितं देवदेवेन भक्तानामनुकंपया
देवदारुवनं रम्यं नानाद्रुमलताकुलम्
शैवाल भोजनाः केचित्केचिदन्तर्जलेशयाः
दन्तोलूखलिनश्चान्ये त्वश्मकुट्टास्तथा परे
कालं नयन्ति तपसा तीव्रेण च महाधियः
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः
उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः
मुखमङ्गारवर्णेन शुक्लेन च विभूषितम्
क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः
आश्रमे ऽभ्यागतो ऽभीक्ष्णं या चते च पुनः पुनः
वृषनादं प्रगर्जन्वै खरनादं ननाद च
ततस्ते मुनयः क्रुद्धाः क्रोधेन कलुषीकृताः