वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः
उमा सीता सिनीवाली कुहूर्गायत्र्य एव च
त्वत्तः प्रसूता देवेश संध्या रात्रिस्तथैव च
नमो ऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते देव हिरण्यवाससे
नमो ऽस्तु ते देव हिरण्यरेतसे नमो ऽस्तु ते देव हिरण्यवाससे
नमो ऽस्तु ते देव हिरण्यरेतसे नमो ऽस्तु ते नेत्रसहस्रचित्र
नमो ऽस्तु ते देव हिरण्यवीर नमो ऽस्तु ते देव हिरण्यदायिने
नमो ऽस्तु ते देव पिनाकपाणे नमो ऽश्तुते ते शङ्कर नीलकण्ठ
देवदेवो जगद्योनिः सूर्य कोटिसमप्रभः
वक्त्रकोटिसहस्रेण ग्रसमान इवांबरम्
नानारत्नविचित्राङ्गो नानामाल्यानुलेपनः
व्यालय ज्ञोपवीती च सुराणामभयङ्करः
मुक्तो हासस्तदा तेन सर्वमापूरयञ्जगत्
अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ
युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ
वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः
ततः प्रहृष्टमनसौ प्रणतौ पादयोः प्रभोः
भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर
एवमुक्त्वा स भगवांस्तत्रैवातरधाद्विभुः
एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम्
महादेव नमस्ते ऽस्तु महेश्वर नमो ऽस्तु ते
नमस्कारं प्रकुर्वाणाः शङ्कराय महात्मने
कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते
एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम्
महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः
चकार वेषं विकृतं येन बुद्धा महर्षयः
आराधयन्प्रसादार्थं नैषां तुष्टः पुनर्भवः
तत्सर्वं कथयस्वेह त्वं नो बुद्धिमतां वरः
निर्म्मितं देवदेवेन भक्तानामनुकंपया
देवदारुवनं रम्यं नानाद्रुमलताकुलम्