चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम्
निमेषान्तरमात्रेण प्राप्तो ऽसौ पुरुषोत्तमः
कस्त्वं कुतो वा कि चेह तिष्ठसे वद मे विभो
एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच तम्
एवं संभाषमाणौ तु परस्परजयैषिणौ
ज्वालां ततस्तामालोक्य विस्मितौ च तदानघाः
वर्द्धमानां तदा ज्वालामत्यन्तपरमाद्भुताम्
दिवं भूमिं च निर्भिद्य तिष्ठन्तं जवालमण्डलम्
प्रादेशमात्रमव्यक्तं लिङ्गं परमदीप्तिमत्
अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः
महता तेजसायुक्तं वर्दभमानंभृशन्तथा
घोररूपिणमत्यर्थं भिन्दं तमिव रोदसी
अन्तमस्य विजानीवो लिङ्गस्य तु महात्मनः
तदा तु समयं कृत्वा गत उर्द्ध्वमधश्च हि
न पश्यामि च तस्यान्तं भीतश्चाहं ततो ऽभवम्
समागतो मया सार्द्ध तत्रैव च महाभसि
मायया मोहितौ तेन नष्टसंज्ञै व्यवस्थितौ
प्रभवं निधनं चैव लौकानां प्रभुमव्ययम्
अव्यक्तायाथ महते नमस्कारं प्रकुर्वहे
नमो ऽस्तु ते शाश्वतसिद्धयोगिने नमोस्तु ते सर्वजगत्प्रतिष्ठित
ज्येष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः
स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम्
वेदा लोकाश्च देवाश्च भगवानेव सर्वशः
भूमौ गन्धो रसश्चाप्सु तेजोरूपं महेश्वरः
वायोः स्पर्शश्च देवेश वपुश्चन्द्रमसस्तथा
बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च
त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो
दक्षिणेन तु वक्त्रेण लोकान्संक्षिपसे पुनः
उत्तरेण तु वक्त्रेण सोमस्त्वं देवसत्तमः
आदित्या वसवो रुद्रा मरुतश्च सहाश्विनः