गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसंपदा
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः
नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः
न हन्यते गति स्तस्य अनिलस्य यथांबरे
मम भक्तया वरारोहे ये च शृम्वन्ति मानवाः
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम्
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
नष्टं च लभते द्रव्यमिह लोके परत्र च
तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम्
यस्तु धारयते नित्यं रुद्रलोकं स गच्छति
यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना
पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा
कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः
निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन
वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः
अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः
श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम्
बलिं बद्ध्वा महावीर्यं त्रैलोक्याधिपतिं पुरा
अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सनातनम्
सिद्धा ब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः
अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम्
त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम्
एवमुक्तः सुरैर्विष्णः सिद्धैश्च परमर्षिभिः
श्रूयतामभिधास्यामि कारणं सुरसत्तमाः
येनाहं ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया
पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रसिते मया
सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात्
एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम्