श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचांबुजेक्षणः
सुरासुरैर्मथ्यमाने पयोधौ पङ्कजेक्षण
प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम्
तत्पिबस्व महादेव लोकानां हितकाम्यया
त्वदृते ऽन्यो महादेव वेगं सोढुं न विद्यते
बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने
पिबतो मे महाघोरं विषं सुरभयप्रदम्
तं दृष्ट्वोत्पलपत्राभं कण्ठसक्तमिवोरगम्
अथोवाच महातेजा ब्रह्मा लोकपितामहः
ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे
यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम्
निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम
ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि
अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश
त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव
त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव
गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे
इत्येतत्परमं गुह्यं पुण्यात्पुण्यतमं महत्
स्वयंभुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी
तस्याहं संप्रवक्ष्यामि फलं सुविपुलं महत्
गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते
स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च
गच्छति क्षेममध्वानं गृहेभ्यो नित्यसंपदा
हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः
नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः
न हन्यते गति स्तस्य अनिलस्य यथांबरे
मम भक्तया वरारोहे ये च शृम्वन्ति मानवाः
ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम्
व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
नष्टं च लभते द्रव्यमिह लोके परत्र च