आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः
भुजङ्गभृङ्गसंकाशं नीलजीमूतसन्निभम्
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्
विषेणोत्तिष्ठमानेन कालानलसमत्विषा
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम्
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम्
शृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः
विषं कालानलप्रख्यं कालकूटमिति श्रुतम्
तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे
सांख्याय चैव योगाय भूतग्रामाय वै नमः
सुरेतसे ऽथ रुद्राय देवदेवाय रंहसे
कपालिने विरूपाय शिवाय वरदाय च
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च
अग्राय चैव चोग्राय विप्रायानेकचक्षुषे
नित्याय चैवानित्याय नित्यानित्याय वै नमः
चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः
उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च
बहुरूपाय मुण्डाय दण्डिने च वरूथिने
धन्विने रथिने चैव यमिने ब्रह्मचारिणे
एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने
सूक्ष्मो ऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः
स्तुतो ऽहं विविधैः स्तोत्रैर्वेदवेदाङ्गसंभवैः
भूतभव्यभवन्नाथ लोकनाथ जगत्पते