सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री
तव कण्ठे महादेव भ्राजतेंबुदसन्निभम्
किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे
कथां मङ्गलसंयुक्तां कथयामास शङ्करः
अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम्
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणो ऽन्तकम्
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः
प्रजासर्गे न सो ऽस्तीह यश्चाज्ञां मे ऽतिवर्तयेत्
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः
भुजङ्गभृङ्गसंकाशं नीलजीमूतसन्निभम्
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्
विषेणोत्तिष्ठमानेन कालानलसमत्विषा
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम्
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम्
शृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः
विषं कालानलप्रख्यं कालकूटमिति श्रुतम्
तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः
इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः
ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः
नमः पिनाकहस्ताय वज्रहस्ताय वै नमः
नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे
सांख्याय चैव योगाय भूतग्रामाय वै नमः
सुरेतसे ऽथ रुद्राय देवदेवाय रंहसे
कपालिने विरूपाय शिवाय वरदाय च
वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च