वीणावादित्रनिर्घेषैः श्रोत्रेन्द्रियमनोरमैः
ध्वजालंबितदोलानां घण्टानां निनदाकुले
मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा
हंसैः परावतैश्चैव बकराजैः सुखस्थिते
सिंहव्याघ्रमुखैर्घोरवाशितैश्चण्डवेगितैः
बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः
ह्रस्वजङ्घैः प्रलेबोष्ठैस्तालजङ्घैस्तथापरैः
बहुपादैर्महापादैरेकपादैरपादकैः
एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः
एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः
सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री
तव कण्ठे महादेव भ्राजतेंबुदसन्निभम्
किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन
एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे
कथां मङ्गलसंयुक्तां कथयामास शङ्करः
अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम्
विषण्णवदनाः सर्वे गतास्ते ब्रह्मणो ऽन्तकम्
किमर्थं वै महाभागा भीता उद्विग्नचेतनाः
तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः
प्रजासर्गे न सो ऽस्तीह यश्चाज्ञां मे ऽतिवर्तयेत्
आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः
तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव
एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ
ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः
भुजङ्गभृङ्गसंकाशं नीलजीमूतसन्निभम्
कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम्
विषेणोत्तिष्ठमानेन कालानलसमत्विषा
तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम्
सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम्
शृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः