पञ्चैते हेतवो विप्रा ज्योतिर्गणविवेचने
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे
ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा
नीलकण्ठ नमस्ते ऽस्तु इत्युवाच सदागतिः
वालखिल्येति विख्याताः पतङ्गसहचारिणः
ते स्म पृच्छन्ति वायु च वायुपर्णांबु भोजनाः
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः
वर्णस्थानगते वायो वाग्विधिः संप्रवर्त्तते
त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः
त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल
एष वै जीवलोकस्ते प्रत्यक्षः सर्वतो ऽनिल
ब्रूहि तत्कण्ठदेशे तु किं कृत्वा रूपविक्रिया
प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः
वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः
महिषासुरनारीणां नयनाञ्जनतस्करम्
उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम्
यदेतद्दृश्यते वर्य शुभ्रं शुभ्राञ्जनोपमम्
एतद्दीप्तांय दान्ताय भक्ताय ब्रूहि पृच्छते
मत्प्रियार्थंमहाभाग वक्तुमर्हस्यशेषतः
प्रत्युवाच महातेजा देवारिबलसूदनः
उमोत्संगोपविष्टेन यथापूर्वं मया श्रुतम्
तमहं संप्रवक्ष्यामि त्वत्प्रियार्थं महामुने
तरुणादित्यसंकाशे तप्तचामीकरप्रभे
जांबूनदमये दिव्ये नानाधातु विचित्रिते
हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते
मत्तक्रैञ्चमयूराणां नादैर्विक्रुष्टकन्दरे
जीवं जीवकजातीनां विरावैरुपकूजिते
सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने