फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः
आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः
सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः
आर्श्लेषासु समुत्पन्नः सर्वहारी महाग्रहः
तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः
एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः
स्पृश्यन्ते तेन दोषेण ततस्तद्ग्रहभक्तितः
ताराग्रहाणां शुक्रस्तु केतूनामपि धूमवान्
नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम्
ऋतूनां शिशिरश्चापि मासानां माघ एव च
अहोरात्रविभागानामहश्चापि प्रकीर्तितम्
क्षणश्चापि निमेषादिः कालः कालविदां वराः
भानोर्गतिविशेषेण चक्रवत्परिवर्त्तते
चतुर्विधानां भूतानां प्रवर्त्तकनिवर्त्तकः
इत्येष ज्योतिषामेव संनिवेशोर्ऽथनिश्चयात्
उत्तराश्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा
बुद्धिबूर्वं भागवता कल्पदौ संप्रवर्त्तितः
वैश्वरूपप्रधानस्य परिणामो ऽयमद्भुतः
गतागतं मनुष्येण ज्योतिषां सांसचक्षुषा
परिक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता
पञ्चैते हेतवो विप्रा ज्योतिर्गणविवेचने
ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे
ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा
नीलकण्ठ नमस्ते ऽस्तु इत्युवाच सदागतिः
वालखिल्येति विख्याताः पतङ्गसहचारिणः
ते स्म पृच्छन्ति वायु च वायुपर्णांबु भोजनाः
एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः
तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन
श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः
वर्णस्थानगते वायो वाग्विधिः संप्रवर्त्तते