गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम्
विग्रहं सर्वभूतानामव्यक्तमभवत्किल
असांप्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम्
गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम्
गुणभावाद्भासमाने महातत्त्व बभूव ह
सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः
निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत्
महासृष्टिं च कुरुते वीतमानः सिसृक्षया
मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात्
मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः
तत्त्वानां संग्रहे यस्मान्महांश्च परिमाणतः
विभक्तिमानं मनुते विभागं मन्यते ऽपि वा
बृहत्त्वाद्वृंहणत्वाच्च भावानामखिलाश्रयात्
आपूरयति यस्माच्च सर्वान् देहाननुग्रहैः
तस्मिंस्तु कार्यकरणं संसिद्धं ब्रह्मणः पुरा
स वै शरीरी प्रथमः पुरा पुरुष उच्यते
आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तिनाम्
सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्म संसितः
भजन्ते च पुनर्देहांस्ते समाहारसंधिसु
गर्तोदकं सबुदास्तु हरेयुश्चापि पञ्चताः
पृथिवी सप्तभिर्द्वीपैः समुद्रैः सह सप्तभिः
अन्तःस्थस्य त्विमे लोका अन्तर्विश्वमिदं जगत्
लोकालोकं च यत् किञ्चिदण्डे तस्मिन्प्रतिष्टितम्
तेजो दशगुणेनैव बाह्यतो वायुना वृतम्
आकाशमावृतं सर्वं बहिर्भूतादिना तथा
एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम्
प्रसर्गकाले स्थित्वा च ग्रसंतस्च परस्परम्
आधाराधेयभावेन विकारास्ते विकारिषु
इत्येवं प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः
आयुष्मान्कीर्तिमान्धन्यः प्रज्ञावांश्च न संशयः