आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु
स्वर्भासा नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते
विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः
बृहस्पतेः पाद हीनौ भौमसौरावुभौ स्मृतौ
तारानक्षत्ररूपाणि वपुष्मन्ति च यानि वै
प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित्
शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने
योजनाद्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते
सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः
सूर्यसोमौ बुधश्चैव भार्गवश्चैव शीघ्रगाः
विधिना नियमाच्चैषामृक्षचर्या व्यवस्थिता
उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः
तदा दक्षिणमार्गस्यो नीयां विथीमुपाश्रितः
न दृश्यते यथाकालं शीघ्रमस्तमुपैति च
दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च
समानकालास्तमयौ विषुवत्सु समोदयौ
पूर्णामवास्ययोर्ज्ञोयौ ज्योतिश्चक्रानुवर्तिनौ
तदा सर्वग्रहाणां च सूर्यो ऽधस्तात्प्रसर्पति
नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्व प्रसर्पति
वक्रस्तु भार्गवादूर्द्ध्व वक्रादूर्द्ध्वं बृहस्पतिः
ऋषीणां चापि सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः
ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम्
नित्यमृक्षेषु युज्यन्ते गच्छन्तो नियताः क्रमात्
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः
असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः
द्विपानामुदधीनां च पर्वतानां त्थैव च
एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः
विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः
शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः
ताराग्रहाणां प्रवरस्तिष्यऋक्षे समुत्थितः