ब्रह्माण्डपुराणम्
नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
आदानान्नित्यमादित्यस्तेजसा तपसामपि
स्वनात्तेजसो ऽपां च तेनासौ सविता मतः
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते
जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः
सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च
जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः
बौधं बुधो ऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम्
स्थानान्येतानि तिष्ठन्ति यावदात्रूतसंप्लवम्
अभिमानिनो ऽवतिष्ठन्ते देवस्थानानि वै पुनः
अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः
त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः
बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽगि रस्सुतः
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः
नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः
सोमर्क्षग्रहसूर्येषु कीर्त्तिता ह्यभिमानिनः
शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः
आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम्
नवरश्मेस्तु भौमस्य लौहितं स्थानमम्मयम्
अषृ रश्मिगृहं प्रोक्तं कृष्णं मन्दस्य चाम्मयम्
विज्ञेयास्तारकाः सर्वा अम्मयास्त्त्वे करश्मयः
घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः
नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः
द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः
उद्धृत्य पृथिवीछायां निर्मितो मण्डलाकृतिः