पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः
पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम्
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः
विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परः
सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत्
हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते
विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः
षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः
नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
आदानान्नित्यमादित्यस्तेजसा तपसामपि
स्वनात्तेजसो ऽपां च तेनासौ सविता मतः
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते
जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः
सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च
जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः
बौधं बुधो ऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः
गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम्
स्थानान्येतानि तिष्ठन्ति यावदात्रूतसंप्लवम्
अभिमानिनो ऽवतिष्ठन्ते देवस्थानानि वै पुनः
अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः
त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः
बृहत्तेजाः स्मृतो देवो देवाचार्यो ऽगि रस्सुतः
शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः
नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः