रुद्रोपेन्द्रेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम्
सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः
ततः संजायते सर्वं तत्र चैव प्रलीयते
जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः
क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः
तदादित्यादृते ह्येषा कालंसख्या न विद्यते
ऋतूनामविभागाच्च पुष्पमूलफलं कुतः
अभावो व्यवहाराणां जन्तूनां दिवि चैह च
स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः
स एष तेचसां राशिस्तमो घ्रन्सार्वलौकिकम्
पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः
पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम्
सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः
तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः
विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परः
सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत्
हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते
विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः
षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः
एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः
नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः
तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः
आदानान्नित्यमादित्यस्तेजसा तपसामपि
स्वनात्तेजसो ऽपां च तेनासौ सविता मतः
शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते
जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे
घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु
मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः
सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च