उदयास्तमने नित्यमहोरात्रं विशत्यपः
पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः
आदत्ते स तु नाडीनां सहस्रेण समन्ततः
स्थावरा जङ्गमाश्चैव याश्च कुल्यादिका अपः
तासां चतुःशता नाड्यो वर्षन्ते चित्र मूर्त्तयः
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः
दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः
शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा
समं विभज्य नाडीस्तु मनुष्टपितृदेवताः
अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ
वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति
इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणोर्ऽयमा
माघमासे तु वरुणः पूषा चैव तु फलाल्गुने
ज्येष्ठमासे भवेदिन्द्रश्चाषाढे सविता रविः
पर्जन्यो ऽश्वयुजे मासि त्वष्टा च कार्तिके रविः
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः
सप्तभिस्तपते सित्रस्त्वष्टा चैवाष्टभिस्तपेत्
षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम्
श्वेतवर्णस्तु वर्षासु पाण्डुः शरदि भास्करः
इति वर्णाः समा ख्याताः सूर्यस्यर्तुसमुद्भवाः
सूर्यो ऽमरेष्वप्यमृतं त्रयं त्रिषु न यच्छति
भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम्
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च
नक्षत्राधिपतिः सोमो ग्रह राजो दिवाकरः
पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः
सुरसेनापतिः स्कन्दः पठ्यते ऽङ्गारको ग्रहः
रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम्
देवासुरगुरू द्वौ तु भानुमन्तौ महा ग्रहौ
आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः