तस्मादपः पिबन्सूर्यो गोभिर्दीप्यत्यसौ दिवि
मानवा नां च कुक्षिस्थो नाद्भिः शास्यति पावकः
किञ्चिदप्सु मतं तेजः किञ्चिद्दृष्टमबिं धनम्
अर्चिष्मान्पवमानो ऽग्निर्निष्प्रभो जाठरः स्मृतः
प्रभा सौरी तु पादेन ह्यस्तं याति देवाकरे
उद्यन्तं च पुनः सूर्यमौष्णमयमाग्नेयमाविशत्
प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी
उत्तरे चैव भूम्यर्द्धे तथा ह्यग्निश्च दक्षिणे
तस्मात्तप्ता भवन्त्यापो दिवारत्रिप्रवेशनात्
तस्मान्नक्तं पुनः शुक्ला आपो ऽदृश्यन्त भास्वराः
उदयास्तमने नित्यमहोरात्रं विशत्यपः
पार्थिवाग्निविमिश्रो ऽसौ दिव्यः शुचिरिति स्मृतः
आदत्ते स तु नाडीनां सहस्रेण समन्ततः
स्थावरा जङ्गमाश्चैव याश्च कुल्यादिका अपः
तासां चतुःशता नाड्यो वर्षन्ते चित्र मूर्त्तयः
अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः
दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः
शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा
समं विभज्य नाडीस्तु मनुष्टपितृदेवताः
अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ
वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति
इन्द्रो धाता भगः पूषा मित्रो ऽथ वरुणोर्ऽयमा
माघमासे तु वरुणः पूषा चैव तु फलाल्गुने
ज्येष्ठमासे भवेदिन्द्रश्चाषाढे सविता रविः
पर्जन्यो ऽश्वयुजे मासि त्वष्टा च कार्तिके रविः
पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि
धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः
सप्तभिस्तपते सित्रस्त्वष्टा चैवाष्टभिस्तपेत्
षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम्
श्वेतवर्णस्तु वर्षासु पाण्डुः शरदि भास्करः