अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः
एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह
तपन्ते ब्राम्यमाणास्तु यथायोगं भ्रमन्ति वै
परिभ्रमन्ति तद्ब्रद्धांश्चन्द्रसुर्यग्रहा दिवि
यथा नह्युदके नौस्तु सलिलेन सहो ह्यते
सर्प्पमाणा न दृश्यन्ते व्योम्नि देवगणास्तु ते
सर्वा ध्रुवे निबद्धाश्च भ्रमन्त्यो भ्रामयन्ति ताः
तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः
यतो ज्योतींषि वहते प्रवहस्तेन स स्मृतः
सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि
यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि
साकारः शिशुमारश्च विज्ञेयः प्रविभागशः
यज्ञः परस्तु विज्ञेयो धर्मो मर्द्धानमाश्रितः
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी
पुच्छे ऽग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः
नक्षत्रचन्द्रमूर्याश्च ग्रहास्तारागणैः सह
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्
अग्नीन्द्रकश्यपानां तु चरमो ऽसौ ध्रुवः स्मृतः
मेरुमालोकयत्येष पर्यन्ते हि प्रदक्षिणम्
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम्
कथं देवगृहाणि स्युः कथं ज्योतींषिवर्णय
श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः
अस्मिन्नर्थे माहाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः
यथा देवगृहाणीह सूर्यचन्द्रग्रहाः स्मृताः
दिव्यस्य भौतिकस्याग्नेरब्योनेः पार्थि वस्य तु
अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम्
स्वयंभूर्भगवांस्तत्र लोकतन्त्रार्थसाधकः
सो ऽग्निं दृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितम्
पवनो यस्तु लोके ऽस्मिन्पार्थिवः सो ऽग्निरुच्यते
वैद्युतो ऽब्जस्तु विज्ञेयस्तेषां वक्ष्ये ऽथ लक्षमम्