तेयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसन्निभः
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः
दशभिस्तैर्महाभागैरकृशैर्वातरंहसैः
असंगैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः
ततश्चाङ्गिरसो विद्वान्देवाचार्यो बृहस्पतिः
अब्जैस्तु वाजिभिर्दिव्यैरष्टभिर्वातरंहसैः
ततः शनैश्चरो ऽप्यश्वैः सबलैर्व्योमसंभवैः
स्वर्भानोश्च तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु
अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः
एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह
तपन्ते ब्राम्यमाणास्तु यथायोगं भ्रमन्ति वै
परिभ्रमन्ति तद्ब्रद्धांश्चन्द्रसुर्यग्रहा दिवि
यथा नह्युदके नौस्तु सलिलेन सहो ह्यते
सर्प्पमाणा न दृश्यन्ते व्योम्नि देवगणास्तु ते
सर्वा ध्रुवे निबद्धाश्च भ्रमन्त्यो भ्रामयन्ति ताः
तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः
यतो ज्योतींषि वहते प्रवहस्तेन स स्मृतः
सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि
यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि
साकारः शिशुमारश्च विज्ञेयः प्रविभागशः
यज्ञः परस्तु विज्ञेयो धर्मो मर्द्धानमाश्रितः
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी
पुच्छे ऽग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः
नक्षत्रचन्द्रमूर्याश्च ग्रहास्तारागणैः सह
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम्
अग्नीन्द्रकश्यपानां तु चरमो ऽसौ ध्रुवः स्मृतः
मेरुमालोकयत्येष पर्यन्ते हि प्रदक्षिणम्
पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम्