पीत्वार्द्ध मासं गच्छन्ति चामावास्यां सुरोत्तमाः
ततः पञ्चदशेकाले किञ्चिच्छिष्टे कलात्मके
पिबन्ति द्विलवं कालं शिष्टास्तस्य कलास्तु याः
तां स्वधां मासतृप्त्यै च पीत्वा गच्छन्ति ते ऽमृतम्
कृष्णपक्षे सुरैस्तद्वत्पीयते वै सुधामयः
काव्यश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते
सौम्यास्तु ऋतुवो ज्ञेया मासा बर्हिषदः स्मृताः
पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै
अमावास्यां तदा तस्य तत आपूर्यते परः
एवं सूर्यनिमित्तैष क्षयोवृद्धिर्निशाकरे
तेयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः
भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसन्निभः
श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः
दशभिस्तैर्महाभागैरकृशैर्वातरंहसैः
असंगैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः
ततश्चाङ्गिरसो विद्वान्देवाचार्यो बृहस्पतिः
अब्जैस्तु वाजिभिर्दिव्यैरष्टभिर्वातरंहसैः
ततः शनैश्चरो ऽप्यश्वैः सबलैर्व्योमसंभवैः
स्वर्भानोश्च तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः
आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु
अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः
एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह
तपन्ते ब्राम्यमाणास्तु यथायोगं भ्रमन्ति वै
परिभ्रमन्ति तद्ब्रद्धांश्चन्द्रसुर्यग्रहा दिवि
यथा नह्युदके नौस्तु सलिलेन सहो ह्यते
सर्प्पमाणा न दृश्यन्ते व्योम्नि देवगणास्तु ते
सर्वा ध्रुवे निबद्धाश्च भ्रमन्त्यो भ्रामयन्ति ताः
तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः
यतो ज्योतींषि वहते प्रवहस्तेन स स्मृतः
सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि