वृष्ट्याभिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधं त्वन्नपानैर्जयन्ति
अन्नेन शश्वच्च दधाति मर्त्यान्सुर्यस्तपंस्तान्सुबिभर्त्ति गोभिः
विसर्गकाले विसृजंश्च ताः पुनर्बिभर्त्ति शश्वत्सविता चराचरम्
ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः समूह्यमानो हरिभिस्तुरङ्गमैः
भद्रैस्तैरक्रमैरश्वैः स्पन्दने वैदिकक्षयः
सप्तद्वीपसमुद्रान्तां सप्तभिः सप्तभिर्हयैः
कामरूपैः सकृद्युक्तैर्वामतस्तैर्मनोजवैः
त्र्यशीतिमण्डलशतं भ्रमन्त्यब्देन ते हयाः
कल्पादौ संप्र युक्तास्ते वहन्त्याभूतसंप्लवात्
वचोभिरग्र्यैर्ग्रथितैः स्तूयमानो महर्षिभिः
पतङ्गैः पतगैरश्वैर्भ्रममाणो दिवस्पतिः
वामदक्षिणतो युक्ता दश तेन चरन्त्यसौ
ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत्स्मृते
अपां गर्णात्समुत्पन्नो रथः साश्वः ससारथिः
दशभिस्तु कृशैर्दिव्यैरसंगैस्तैर्मनोजवैः
संगृहीतरथे तस्मिञ्श्वेतश्चक्षुःश्रवाश्च वै
यजुश्चण्डमनाश्चैव वृषो वाजी नरो हयः
इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः
देवैः परिवृतः सोमः पितृभिश्चैव गच्छति
आपूर्यते परस्यान्ते सततं दिवसक्रमात्
क्षीणं पञ्चदशाहं तु रश्मिनैकेन भास्करः
सुषुम्णाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः
इत्येवं सूर्यवीर्येण चन्द्रश्चाप्यायितस्ततः
एवमाप्यायितः सोमः शुक्ल पक्षे दिनक्रमात्
अपां सारमयस्येन्दो रसमात्रात्मकस्य तु
संभृतं त्वर्द्धमासेन ह्यमृतं सूर्यतेजसा
एकां रात्रिं सुरैः सर्वैः पितृभिः सर्षिभिः सह
प्रक्षीयन्ते पिदृदेवैः पीयमानाः कलाः क्रमात्
त्रयश्च त्रिसहस्राश्च देवाः सोमं पिबन्ति वै
क्षीयन्ति तस्माच्छुक्लाश्च कृष्णा आप्याययन्ति च