समाप्तयज्ञो यत्रास्ते वासुदेवं महाधिपम्
प्रचोदितः स्ववंशार्थं स च तानब्रवीत्प्रभुः
अणिमादिभिरष्टाभिः सूक्ष्मैरङ्गैः समन्वितः
सप्तस्कन्धा भृताः शाखाः सर्वतोयाजराजरान्
व्यूहत्रयाणां सूतानां कुर्वन् सत्रं महाबलः
प्राणाद्या वृत्तयः पञ्च धारणानां स्ववृत्तिभिः
आकाशयोनिर्द्विगुणः शाब्दस्पर्शसमन्वितः
भारत्यार्ः श्लक्ष्णया सर्वान्मुनीन्प्रह्लादयन्निव
पुराम नियता विप्राः कथामकथयद्विभुः
ऋषीणां च परं चैतल्लोकतत्त्वमनुत्तमम्
देवतानामृषीणां च सर्वपापप्रमोचनम्
विस्तरेणानुपूर्व्या च तस्य वक्ष्याम्यनुक्रमम्
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम्
स्ववंशं धारणं कृत्वा स्वर्गलोके महीयते
कीर्त्यमानं निबोधार्थं पूर्वेषां कीर्त्तिवर्द्धनम्
कीर्त्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम्
तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च
ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे
पञ्चप्रमाणं षद्श्रान्तः पुरुषाधिष्ठितं च यत्
अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम्
गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम्
विग्रहं सर्वभूतानामव्यक्तमभवत्किल
असांप्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम्
गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम्
गुणभावाद्भासमाने महातत्त्व बभूव ह
सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः
निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत्
महासृष्टिं च कुरुते वीतमानः सिसृक्षया
मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात्
मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः