प्रम्लोचा इति विख्यातानुम्लोचेति च ते उभे
नभोनभस्ययोरेष गाणो वसति भास्करे
पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः
विश्वाची च घृताची च उभे ते शुभलक्षणे
श्चेनजिच्च सुषेणश्च सेनीर्ग्राम णीश्च तौ
वसंत्येते तु वै सूर्ये सदैवाश्विनकर्तिके
अंशो भगश्च द्वावैतौ कश्यपश्य क्रतुश्च ह
चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ
तार्क्षश्चारिष्टनेमिश्च सेनानीर् ग्रामणीश्च तौ
सहे चैव सहस्ये च वसंत्येते दिवाकरे
त्वष्टा विष्णुर्जामदग्न्यो विश्वामित्रस्तथैव च
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथैव च
यज्ञापेतम्तथैवान्यो विश्यातो राक्षसो त्तमः
तपस्तपस्ययोः सूर्ये वसंति मुनिसत्तमाः
परिवर्त्तत्यहोरात्रकारणं सविता द्विजाः
स्थानाभिमानिनो ह्येते गाणा द्वादशसप्तकाः
ग्रथितैः स्वैर्वचोभिश्च स्तुवन्ति ह्यृषयो रविम्
ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम्
वालखिल्या नंयत्यस्तं परिवार्योदयाद्रविम्
यथाधर्मं यथायोगं यथासत्यं यथाबलम्
इत्येते निवसंतीह द्वौ द्वौ मासौ दिवाकरे
ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यशः
भूतानां चशुभं कर्म व्यपोहन्ति प्रकीर्त्तिताः
दुरितं सुप्रचाराणां व्यपोहन्ति क्वचि त्क्वचित्
वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः
स्थानाभिमानिनामेतत्स्थानं मन्वन्तरेषु वै
चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह
गच्छत्यसावृतुवशात्परिवृत्तरश्मिर्देवान् पितॄ#ंश्च मनुजांश्च हि तर्पयन्वै
शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति
सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः