असंगः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः
वारुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः
अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य ह
अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः
रथनीडः स्मृतो ह्येष चायने कूबरावुभौ
तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै
रात्रिर्वरूथो धर्मो ऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः
सप्ताश्वरूपाश्छन्दासि वहन्तो वामतो धुरम्
पङ्क्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी
सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः
एवमर्थवशात्तस्य सन्निवेशो रथस्य तु
तेनासौ तरणिर्देवो भास्वता सर्पते दिवि
ध्रुवे तौ भ्राम्यते रश्मी च चक्रयुगयोस्तु वै
युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि
भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ
कीलासक्ता यथा रज्जुर्भ्रंमते सर्वतो दिशम्
वर्द्धते दक्षिणे चैव भ्रमतो मण्डलानि तु
ध्रुवेण प्रगृहीतौ वै तौ रश्मी नयतो रविम्
तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु
ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु
उद्वेषाटयन्स वेगेन मण्डलानि तु गच्छति
गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
धातार्ऽयमा पुलस्त्यश्च पुलहश्च प्रजापतिः
रथकृच्च रथौजाश्च यक्षावेतावुदा त्दृतौ
रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ
मित्रश्च वरुणश्चैव मुनिरत्रिरुदाहृतः
राक्षसौ च समाख्यातौ पौरुषेयो वधस्तथा
रथचित्रस्तथैवान्यो नागसाक्षकसंज्ञेतः
ततः सूर्ये पुनस्त्वन्या निवसंतीह देवताः
एलापत्रस्तथा सर्पः शङ्खपालाश्च तावुभौ