अनेकरूपसंस्थानाः पूरयन्तो महीतलम्
यान्यण्डस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः
तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम्
तुषारवृष्टिं वर्षन्ति शिष्टः सस्यप्रवृद्धये
यो ऽसौ बिबर्त्ति भगवान्गङ्गामाकाशगोचराम्
तस्या निष्यन्दतोयानि दिग्गजाः पृथुभिः करैः
दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः
पुण्ड्रं नाम समाख्यातं नगरं तत्र विस्तृतम्
ततस्तदा वहो वायुर्हेमवन्तं समुद्वहन्
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम्
वर्षद्वयं समाख्यातं सस्यद्वयविवृद्धये
सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते
ध्रुवेणाधिष्ठितः सूर्यस्तस्यां वृष्टौ प्रवर्त्तते
ग्रहो निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले
ततः सूर्यरथस्याथ सन्निवेशं निबोधत
हिरण्मयेन भगवांस्तथैव हरिदर्वणा
चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पति
द्विगुणो ऽस्य रथोपस्थादीषादण्डः प्रमाणतः
असंगः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः
वारुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः
अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य ह
अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः
रथनीडः स्मृतो ह्येष चायने कूबरावुभौ
तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै
रात्रिर्वरूथो धर्मो ऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः
सप्ताश्वरूपाश्छन्दासि वहन्तो वामतो धुरम्
पङ्क्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी
सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः