तेजोर्ऽकः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम्
संजीवनं च सस्यानामंभस्तदमृतोपमम्
यच्छत्यापो हि मेघेभ्यः घुक्लाशुक्लैर्गभस्तिभिः
सर्वभूतहितार्थाय वायुमिश्राः समन्ततः
वायव्यं स्तनितं चैव वैद्युतं चाग्निसंभवम्
न भ्रश्यन्ति यतश्चापस्तदभं कवयो विदुः
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः
आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम्
महिषाश्च वाराहाश्च मत्तमातङ्गरूपिणः
जीमूता नाम ते मेघा ह्येतेभ्यो जीवसंभवः
मूकमेघा महाकाया आवहस्य वशानुगाः
पर्वताग्र नितंबेषु वर्षति च रसंति च
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः
तेषां शश्र्वत्प्रणादेन भूमिः स्वाङ्गरूहोद्भवा
तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा
एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि
पुष्करावर्त्तका नाम ते मेघाः पक्षसंभवाः
कामागानां प्रवृद्धानां भूतानां शिवमिच्छता
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः
कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्ने र्नियामकाः
अनेकरूपसंस्थानाः पूरयन्तो महीतलम्
यान्यण्डस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः
तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः
कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम्
तुषारवृष्टिं वर्षन्ति शिष्टः सस्यप्रवृद्धये
यो ऽसौ बिबर्त्ति भगवान्गङ्गामाकाशगोचराम्
तस्या निष्यन्दतोयानि दिग्गजाः पृथुभिः करैः
दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः
पुण्ड्रं नाम समाख्यातं नगरं तत्र विस्तृतम्