सदस्यानुमते रम्ये स्वास्तीर्णे समुपाविशत्
मुदान्विता यथान्यायं विनयस्थाः समाहिताः
परमप्रीतिसंयुक्ता इत्यूचुः सूतनन्दनम्
पश्याम धीमन्नत्रस्थाः सुब्रतं मुनिसत्तमम्
भवांस्तस्य मुनेः सूत व्यासस्यापि महात्मनः
कृतबुद्धिश्च ते तत्त्वमनुग्राह्यतया प्रभो
पृच्चतां नः सदा प्राज्ञ सर्वमाख्यातुमर्हसि
श्रोतुं धर्मार्थयुक्तां तु एतव्द्यासाच्छ्रुतं त्वया
उवाच परमाप्राक्ज्ञो विनीतोत्तर मुत्तमम्
यस्माच्छुशूषणार्थं च तत्सत्यमिति निश्चयः
जिज्ञासा यत्र युष्माकं तदाज्ञातुमिहार्हथ
प्रत्यूचुस्ते पुनः सूतं बाष्पपर्याकुलेक्षणम्
तस्मात्त्वं संभवं कृत्स्नं लोकस्येमं विदर्शय
सत्कृत्य परिपृष्टः स महात्मा रोमहर्षणः
यो मे द्वैपायनप्रीतः कथां वै द्विजसत्तमाः
पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
प्रक्रिया प्रथमः पादः कथायां स्यात्परिग्रहः
एवं पादास्तु चत्वारः समासात्कींर्तिता मया
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा श्रुतम्
अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा
महदादिविशेषान्तं सृजामीति विनिश्चयः
अडस्यावरणं वार्धिरपामपि च तेजसा
भूतादिर्महता चैव अव्यक्तेनावृतो महान्
नदीनां पर्वतानां च प्रादुर्भावो ऽत्र पठ्यते
कीर्त्तनं ब्रह्मवृक्षस्य ब्रह्मजन्म प्रकीर्त्यते
अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणो ऽव्यक्तजन्मनः
शयनं च हरेरप्सु पृथिव्युद्धरणं तथा
ऋक्षाणां ग्रहसंस्थानां सिद्धानां च निवेशनम्
स्वर्गस्थानविभागश्च सर्त्यानां शुभचारिणाम्