आदित्यपीतं सकलं सोमः संक्रमते जलम्
यत्सोमात्स्रवते ह्यंबु तदन्नेष्वेव तिष्ठति
एवमुत्क्षिप्यते चैव पतते चासकृज्जलम्
संधारणार्थं लोकानां मायैषा विश्वनिर्मिता
विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः
सार्वलोकिकमंभो यत्तत्सोमान्नभसश्व्युतम्
सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते
सोमाधारा नदी गङ्गा पवित्रा विमलोदका
सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः
धूमभूतास्तु ता ह्यापो निष्कामन्तीह सर्वशः
तेजोर्ऽकः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम्
संजीवनं च सस्यानामंभस्तदमृतोपमम्
यच्छत्यापो हि मेघेभ्यः घुक्लाशुक्लैर्गभस्तिभिः
सर्वभूतहितार्थाय वायुमिश्राः समन्ततः
वायव्यं स्तनितं चैव वैद्युतं चाग्निसंभवम्
न भ्रश्यन्ति यतश्चापस्तदभं कवयो विदुः
आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः
आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम्
महिषाश्च वाराहाश्च मत्तमातङ्गरूपिणः
जीमूता नाम ते मेघा ह्येतेभ्यो जीवसंभवः
मूकमेघा महाकाया आवहस्य वशानुगाः
पर्वताग्र नितंबेषु वर्षति च रसंति च
ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः
तेषां शश्र्वत्प्रणादेन भूमिः स्वाङ्गरूहोद्भवा
तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा
एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि
पुष्करावर्त्तका नाम ते मेघाः पक्षसंभवाः
कामागानां प्रवृद्धानां भूतानां शिवमिच्छता
पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः
कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्ने र्नियामकाः