अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम्
ते संप्रयोगाल्लोकस्य मैथुनस्य च वर्जनात्
पुनश्चाकामसंयोगाच्छब्दादेर्देषदर् शनात्
आभूतसंप्लवस्थानाममृतत्वं विभाव्यते
ब्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतो ऽपरे
उर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वै स्मृतः
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम्
सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः
अव्यूहेन च सर्वाणि तथैवासंकरेण वा
एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम
प्रत्यक्षमपि दृश्यं च संमोहयति यत्प्रजाः
उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि
भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत्
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह
तेषां योगश्च भेदश्च कालश्चारस्तथैव च
विषुवद्ग्रहवर्णाश्च द्रुवात्सर्वं प्रवर्त्तते
शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्त्तते
तदेष दीप्त किरणः स कालग्निर्दिवाकरः
सूर्यः किरमजालेन वायुयुक्तेन सर्वशः
आदित्यपीतं सकलं सोमः संक्रमते जलम्
यत्सोमात्स्रवते ह्यंबु तदन्नेष्वेव तिष्ठति
एवमुत्क्षिप्यते चैव पतते चासकृज्जलम्
संधारणार्थं लोकानां मायैषा विश्वनिर्मिता
विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः
सार्वलोकिकमंभो यत्तत्सोमान्नभसश्व्युतम्
सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते
सोमाधारा नदी गङ्गा पवित्रा विमलोदका
सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः
धूमभूतास्तु ता ह्यापो निष्कामन्तीह सर्वशः