सिनीवाली कुहूश्चैव राका चानुमतिस्तथा
नभोनभस्याविषऊर्जसंज्ञौ सहःसहस्याविति दक्षिणं स्यात्
आर्तवाश्च ततो ज्ञेया पञ्चाब्दा ब्रह्मणाः सुताः
तस्मादृतुमुखी ज्ञेया अमावास्यास्य पर्वणः
पर्व ज्ञात्वा न मुह्येत पित्र्ये दैवे च मानवः
आलोकात्तु स्मृतो लोको लोकालोकः स उच्यते
चत्वारस्ते महात्मानस्तिष्टन्त्याभूतसंप्लवात्
हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च यः
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम्
पितृयानः स वै पन्था वैश्वानरपथाद्वहिः
लोकस्य संतानकराः पितृयानपथे स्थिताः
प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणाः
संतप्तास्तपसा चैव मर्यादाभिः श्रुतेन च
पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्वपि
अष्टाशीतिसहस्राणि ऋषीमाङ्गृहमेधिनाम्
क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे
इच्छाद्वेषप्रवृत्त्या च मैथुनोपगमेन वै
एतैस्तैः कारणैः सिद्धा ये श्मशानानि भेजिरे
नागवीथ्युत्तरो यश्च सप्तर्षिगणदक्षिणः
यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः
अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम्
ते संप्रयोगाल्लोकस्य मैथुनस्य च वर्जनात्
पुनश्चाकामसंयोगाच्छब्दादेर्देषदर् शनात्
आभूतसंप्लवस्थानाममृतत्वं विभाव्यते
ब्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतो ऽपरे
उर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वै स्मृतः
धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः
भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम्
सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः
अव्यूहेन च सर्वाणि तथैवासंकरेण वा