संवत्सरादयः पञ्च चतुर्मानविकल्पिताः
संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः
पञ्चमोवत्सरस्तेषां कालस्तु युगसंहितः
शतान्यष्टादश त्रिंशदुदयाद्भास्करस्य च
पञ्च च त्रिशतं चापि षष्टिवर्षं च भास्करम्
एकषष्टि त्वहोरात्रमृतुरेको विभाव्यते
मानं तच्चित्रभानोस्तु विज्ञेयमयनस्य ह
मानान्येतानि चत्वारि यैःपुराणे हि निश्चयः
त्रीणितस्य तु शृङ्गाणि स्पृशन्तीव नभस्तलम्
एकश्च मार्गविष्कंभविस्तारश्चास्य कीर्तितः
दक्षिणं राजतं चैव शृङ्गं तु स्फटिकप्रभम्
एवं कूटैस्त्रिभिः शैलः शृङ्गवानिति विश्रुतः
शरद्वसंतयोर्मध्ये मध्यमां गतिमास्थितः
अनुलिप्ता इवाभान्ति पद्मरक्तैर्गभस्तिभिः
मुहूर्त्ता दश पञ्चैव अहो रात्रिश्च तावती
विशाखानां तदा ज्ञेयश्चतुर्थांश निशाकरः
तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम्
विषुवं तं विजानीयादेवमाहुर्महर्षयः
समा रात्रिरहश्चैव यदा तद्विषुवं भवेत्
ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम्
सिनीवाली कुहूश्चैव राका चानुमतिस्तथा
नभोनभस्याविषऊर्जसंज्ञौ सहःसहस्याविति दक्षिणं स्यात्
आर्तवाश्च ततो ज्ञेया पञ्चाब्दा ब्रह्मणाः सुताः
तस्मादृतुमुखी ज्ञेया अमावास्यास्य पर्वणः
पर्व ज्ञात्वा न मुह्येत पित्र्ये दैवे च मानवः
आलोकात्तु स्मृतो लोको लोकालोकः स उच्यते
चत्वारस्ते महात्मानस्तिष्टन्त्याभूतसंप्लवात्
हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च यः
लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम्
पितृयानः स वै पन्था वैश्वानरपथाद्वहिः