तजापि संचरन्मार्गं समेन विषमेण च
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु
दक्षिणे नागवीथ्यास्तु लोकालोकस्य चोत्तरे
पृष्टे यावत्प्रभा सौरी पुरस्तात्संप्रकाशते
योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः
नक्षत्रचन्द्रसूर्यश्च ग्रहैस्तारागणैः सह
एतावानेव लोकस्तु निरालोकस्ततः परम्
लोकालोकं तु संधत्ते यस्मात्सुर्यपरिग्रहम्
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम्
प्रजापतिनियोगेन शापस्त्वेषां दुरात्मनाम्
तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः
तापयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम्
ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव सत्तमाः
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्
ततः पुनर्महातेजा महाबलपराक्रमः
वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते
ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमात्
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते तु वै
तस्मात्प्रातस्तनात्कालात्र्रिमुहूर्त्तस्तु संगवः
तस्मान्मध्यन्दिनात्कालादपराह्ण इति स्मृतः
अपराह्णे व्यतीते तु कालः सायाह्न उच्यते
दशपञ्चमुहूर्त्त वै ह्यहर्वैषुवतं स्मृतम्
अहस्तु ग्रसते रात्रिं रात्रिश्च ग्रसते त्वहः
अहोरात्रे कलाश्चैव समं सोमः समश्नुते
द्वौच पक्षौभवेन्मासो द्वौमासावर्कजावृतुः
निमेषा विद्युतश्चैव काष्टास्ता दश पञ्च च
सप्तैका द्व्यधिका त्रिशन्मात्रा षटत्रिंशदुत्तरा
चत्वारि शत्सहस्राणि शतान्यष्टौ च विद्युतः
चत्वार्येव शतान्याहुर्विद्युते द्वे च संयुते