कुलालचक्रमध्ये तु यथा मन्दं प्रसर्पति
तस्मा द्दीर्घेन कालेन भूमिं स्वल्पानि गच्छति
अहो भवति तच्चापि चरते मन्दविक्रमः
मुहूर्तैस्तावदृक्षाणि नक्तं द्वादशभिश्चरन्
मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा
उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु
ध्रुवस्तथा हि विज्ञेयस्तत्रैव परीवर्त्तते
दिवानक्तं च सूर्यस्य मन्दा शीघ्रा च वै गातिः
तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गातिः
गतिः सूर्यस्य नक्तं च मन्दा चैव गतिस्तथा
तजापि संचरन्मार्गं समेन विषमेण च
अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु
दक्षिणे नागवीथ्यास्तु लोकालोकस्य चोत्तरे
पृष्टे यावत्प्रभा सौरी पुरस्तात्संप्रकाशते
योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः
नक्षत्रचन्द्रसूर्यश्च ग्रहैस्तारागणैः सह
एतावानेव लोकस्तु निरालोकस्ततः परम्
लोकालोकं तु संधत्ते यस्मात्सुर्यपरिग्रहम्
उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम्
प्रजापतिनियोगेन शापस्त्वेषां दुरात्मनाम्
तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः
तापयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम्
ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव सत्तमाः
ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम्
ततः पुनर्महातेजा महाबलपराक्रमः
वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः
त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते
ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमात्
लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते तु वै
तस्मात्प्रातस्तनात्कालात्र्रिमुहूर्त्तस्तु संगवः