अस्तं याति पुनः सूर्ये दिनमाविशते त्वषः
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे
देनं सूर्यप्रकाशाख्यं तामसी रात्रिरूच्यते
एवं पुष्करमध्येन यदा सर्पति भास्करः
योजनाग्रान्मुहूर्त्तस्य इह संख्यां निबोधत
पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि च
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम्
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने
सर्पते दक्षिणायां तु काष्ठायां वै निबोधत
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च
दक्षिणाद्विनिवृत्तो ऽसौ विषुवस्थो यदा रविः
मण्डलं विषुवत्तस्य योजनैस्तन्निबोधत
तथा शतसहस्राणामशीत्येकाधिका पुनः
शाकद्वीपस्य षष्ठस्य उत्तरातो दिशश्चरन्
योजनाग्रात्प्रसंख्याता कोटिरेका तु स द्विजाः
अष्टपञ्चाशतं चव योजनान्यधिकानि तु
मूलं चैव तथाषाढे त्वजवीथ्युदयास्त्रयः
काष्ठयोरन्तरं यच्च तद्वक्ष्येयजनैः पुनः
त्रयः शताधिकाश्चन्ये त्रयस्त्रिंशच्च योजनैः
काष्ठयोर्लेखयोश्चैव ह्यन्तरं दक्षिणोत्तरे
एकैकमन्तरं तस्य वियुतान्येकसप्ततिः
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम्
बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम्
चरते दक्षिणे चापि तावदेव विभावसुः
योजनानां सहस्राणि सप्तादश समासतः
एकविंशतिभिश्चैव योजनैरधिकैर्हि ते
विष्कंभो मण्डलस्याथ तिर्यक् स तु विधीयते
कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति
त्रयोदशार्द्धमृक्षाणामह्ना तु चरते रविः