प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते
विदूरभावादर्कस्य भूमिलेखावृतस्य च
ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च
शुक्लच्छायो ऽग्निरा पश्च कृष्णच्छाया च मेदिनी
रक्तभावो विरश्मत्वाद्रक्तत्वाच्जाप्यनुष्णता
ऊर्द्ध्व शातसहस्र तु योजनानां स दृश्यते
अग्निमाविशते राद्रौ तस्माद्दूरात्प्रकाशते
संयुक्तो वह्निना सूर्यस्तपते तु ततो दिवा
परस्परानुप्रवेशाद्दीप्येते तु दिवानिशम्
उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपः
अस्तं याति पुनः सूर्ये दिनमाविशते त्वषः
एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे
देनं सूर्यप्रकाशाख्यं तामसी रात्रिरूच्यते
एवं पुष्करमध्येन यदा सर्पति भास्करः
योजनाग्रान्मुहूर्त्तस्य इह संख्यां निबोधत
पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि च
एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम्
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने
सर्पते दक्षिणायां तु काष्ठायां वै निबोधत
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च
दक्षिणाद्विनिवृत्तो ऽसौ विषुवस्थो यदा रविः
मण्डलं विषुवत्तस्य योजनैस्तन्निबोधत
तथा शतसहस्राणामशीत्येकाधिका पुनः
शाकद्वीपस्य षष्ठस्य उत्तरातो दिशश्चरन्
योजनाग्रात्प्रसंख्याता कोटिरेका तु स द्विजाः
अष्टपञ्चाशतं चव योजनान्यधिकानि तु
मूलं चैव तथाषाढे त्वजवीथ्युदयास्त्रयः
काष्ठयोरन्तरं यच्च तद्वक्ष्येयजनैः पुनः
त्रयः शताधिकाश्चन्ये त्रयस्त्रिंशच्च योजनैः
काष्ठयोर्लेखयोश्चैव ह्यन्तरं दक्षिणोत्तरे