दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि
प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि
वरुणो यादसां नाथस्सुखाख्ये वसते पुरे
तुल्या महेन्द्रपुर्य्यास्तु सोमस्यापि विभावरी
स्थिता धर्मव्यवस्थार्थ लोकमंरक्षणाय च
काष्ठागतस्य सूर्यस्य गतिया तां निबोधत
ज्योतिषां चक्रमादाय सततं परिगच्छति
वैवस्वते संयमते उदयस्तत्र दृश्यते
सुखायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते
यदा दक्षिणपुर्वेषामपराह्णो विधीयते
तेषामपररात्रश्च ये जना उत्तराः परे
एवमेवोत्तरेष्वर् के भुवनेषु विराजते
विभायां सोमपुर्यां वा उत्तिष्ठति विभावसुः
सोमपुर्या विभायां तु मध्याह्ने स्याद्दिवाकरः
अर्द्धरात्रं संयमने वारुण्यामस्तमेति च
भ्रमन्वै भ्रममार्णानि ऋक्षाणि चरते रविः
उदयास्तमने चासावृत्ति ष्ठति पुनः पुनः
तपत्यर्कश्च मध्याह्ने तैरेव च स्वरश्मिभिः
अतः परं ह्रसंतीभिर्गोभिरस्तं निगच्छति
यावत्पुरस्तात्तपति तापत्पृष्ठे ऽथ पार्श्वयोः
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते
विदूरभावादर्कस्य भूमिलेखावृतस्य च
ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च
शुक्लच्छायो ऽग्निरा पश्च कृष्णच्छाया च मेदिनी
रक्तभावो विरश्मत्वाद्रक्तत्वाच्जाप्यनुष्णता
ऊर्द्ध्व शातसहस्र तु योजनानां स दृश्यते
अग्निमाविशते राद्रौ तस्माद्दूरात्प्रकाशते
संयुक्तो वह्निना सूर्यस्तपते तु ततो दिवा
परस्परानुप्रवेशाद्दीप्येते तु दिवानिशम्
उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपः