अभिमानिनोव्यतीता ये तुल्यास्ते सांप्रतैस्त्विह
तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम्
शतार्द्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता
पृथिव्या ह्यर्द्धविस्तारो योजनाग्रात्प्रकीर्त्तितः
तथा शातसहस्राणामेकोन नवतिः पुनः
गणितं योजनाग्रात्तु कोट्यस्त्वेकादश स्मृताः
इत्येतदिह संश्यातं पृथिव्यन्तस्य मण्डलम्
पर्याससन्निवेशश्च भूमेर्यावत्तु मण्डलम्
सप्तानामपि द्वीपानामेत त्स्थानं प्रकीर्तितम्
उपर्युपरि लोकानां छत्रवत्परिमण्डलम्
एतदण्डकपालस्य प्रमाणं परिकीर्त्तितम्
भूर्लोकश्च भुवर्ल्लोकस्तृतीयस्सृरिति स्स्वतः
एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः
दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः
अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः
घनोदधिः परेणाथ धार्य्यते घनतेजसा
संमताद्धनवातेन धार्यमाणं प्रतिष्ठितम्
भूतादिना वृतं सर्वं भूतादिर्महता वृतः
पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम्
मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि
दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि
प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि
वरुणो यादसां नाथस्सुखाख्ये वसते पुरे
तुल्या महेन्द्रपुर्य्यास्तु सोमस्यापि विभावरी
स्थिता धर्मव्यवस्थार्थ लोकमंरक्षणाय च
काष्ठागतस्य सूर्यस्य गतिया तां निबोधत
ज्योतिषां चक्रमादाय सततं परिगच्छति
वैवस्वते संयमते उदयस्तत्र दृश्यते
सुखायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते
यदा दक्षिणपुर्वेषामपराह्णो विधीयते