विबुधाश्चोषिरे तत्र सहस्रपरिवत्सरान्
कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम्
रोहिणी स सुता तत्र गोमती साभवत् क्षणात्
रुन्धत्याः सुतायात्रादानमुत्तमतेजसः
यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः
पराभवो वसिष्ठस्य यस्य ज्ञाने ह्यवर्त्तयत्
नैमिषं जज्ञिरे यस्मान्नैमिषीयास्ततः स्मृताः
पुरूरवसि विक्रान्ते प्रशासति वसुंधराम्
तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम्
आजहार च तत्सत्रमुर्वश्या सह संगतः
यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम्
हिरण्मयं ततश्चके यज्ञवाटं महात्मनाम्
स प्रविश्य ततः सत्रे तेषाममिततेजसाम्
तं दृष्ट्वा महादाश्वर्यं यज्ञवाटं हिरण्मयम्
नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतिं भृशम्
तपोनिष्ठाश्च राजानं मुनयो देवचोदिताः
और्वशेयैस्ततस्तस्य युद्धं चक्रे नृपो भुवि
स तेष्ववभृथेष्वेव धर्म्मशीलो महीपतिः
शान्तयित्वा तु राजानं तदा ब्रह्मविदस्तथा
बभूव सत्रे तेषां तु ब्रह्मचर्यं महात्मनाम्
वैखानसैः प्रियसखैर्वाल खिल्यैर्मरीचिभिः
वितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः
स्तोत्रशस्त्रैर्गृहैर्देवान्पितॄन्पित्र्यैश्च कर्मभिः
आराधने स सस्मार ततः कर्मान्तरेषु च
व्याजह्रुर्मुनयो वाचं चित्राक्षरपदां शुभाम्
वितण्डावचनैश्चैव निजघ्नुः प्रतिवादिनः
न तत्र हारितं किञ्चिद्विविशुर्ब्रह्मराक्षसाः
प्रायश्चित्तं दरिद्रं च न तत्र समजायत
एवं च ववृधे सत्रं द्वादशाब्दं मनीषिणाम्
वृद्धाद्या ऋत्विजो वीरा ज्योतिष्टोमान् पृथक्पृथक्