पञ्चमे ऽस्मिंस्तले ज्ञेयं शर्करानिचये सदा
सुपर्वणः पुलोम्नश्च नगरं महिषस्य च
तत्रास्ते सुरमापुत्रः शतशीर्षो मुदा युतः
एवं पुरसहस्राणि नागदानवरक्षसाम्
सप्तमे तु तले ज्ञेयं पाताले सर्वपश्चिमे
असुराशीविषैः पूर्णं सुखितैर्देवशत्रुभिः
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः
दैत्यानां दानवानां च समुदीर्णैर्महापुरैः
पातालान्ते च विप्रेन्द्रा विस्तीण बहुयोजने
धौतशङ्खोदरवपुर्नील वासा महाबलः
रुक्मशृङ्गावदातेन दीप्तास्येन विराजता
स जिह्वामालया दीप्तो लोलज्ज्वालानलार्चिषा
स तु नेत्रसहस्रेण द्विगुणेन विराजता
तस्य कुन्देन्दुवर्णस्य नेत्रमाला विराजते
विकरालोच्छ्रिततनुर्लक्ष्यते शयनासने
महानागैर्महाभोगैर्महाविज्ञैर्महात्मभिः
स राजा सर्वनागानां शेषो ऽनन्तो महाद्युतिः
सप्तैवमेते कथिता व्यवहार्या रसातलाः
अतः परमनालोकमगम्यं सिद्धसाधुभिः
पृथ्व्यंबुव ङ्निवायूनां नभसश्च द्विजोत्तमाः
अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्
प्रकाशैस्तु प्रभाभिस्तौ मण्डलाभ्यां समुच्छ्रितौ
विस्तरार्द्धे पृथिव्यास्तु भवेदन्यत्र बाह्यतः
पर्यास्तात्पारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम्
अविधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः
महित्तत्त्वान्महीशब्दो ऽह्यस्मिन्वर्षे निपाद्यते
मण्डलं भास्करस्याथ योजनानि निबोधत
विस्तारात्र्रिगुणश्चास्य परिणाहस्तु मण्डले
अथ पृथिव्या वक्ष्यामि प्रमाणं योजनैः सह
इत्येतदिह संख्यातं पुराणे परिमाणतः