राक्षसेंद्रस्य च पुरं कुम्भिलस्य खरस्य च
हेमकस्य च नागस्य तथा पाण्डुरकस्य च
नेदकस्योरगपतोर्विशालाक्षस्य मन्दिरम्
तृतीये ऽस्मिंस्तले विप्रा नीलभौमे न संशयः
गजकर्णस्य च पुरं नगरं कुञ्जरस्य च
मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम्
नगलं वैनतेयस्य चतुर्थे ऽस्मिन्नसातले
विरोजनस्य नगरं दैत्यसिंहस्य धीमतः
पुरं च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमतः
किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च
पञ्चमे ऽस्मिंस्तले ज्ञेयं शर्करानिचये सदा
सुपर्वणः पुलोम्नश्च नगरं महिषस्य च
तत्रास्ते सुरमापुत्रः शतशीर्षो मुदा युतः
एवं पुरसहस्राणि नागदानवरक्षसाम्
सप्तमे तु तले ज्ञेयं पाताले सर्वपश्चिमे
असुराशीविषैः पूर्णं सुखितैर्देवशत्रुभिः
अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः
दैत्यानां दानवानां च समुदीर्णैर्महापुरैः
पातालान्ते च विप्रेन्द्रा विस्तीण बहुयोजने
धौतशङ्खोदरवपुर्नील वासा महाबलः
रुक्मशृङ्गावदातेन दीप्तास्येन विराजता
स जिह्वामालया दीप्तो लोलज्ज्वालानलार्चिषा
स तु नेत्रसहस्रेण द्विगुणेन विराजता
तस्य कुन्देन्दुवर्णस्य नेत्रमाला विराजते
विकरालोच्छ्रिततनुर्लक्ष्यते शयनासने
महानागैर्महाभोगैर्महाविज्ञैर्महात्मभिः
स राजा सर्वनागानां शेषो ऽनन्तो महाद्युतिः
सप्तैवमेते कथिता व्यवहार्या रसातलाः
अतः परमनालोकमगम्यं सिद्धसाधुभिः
पृथ्व्यंबुव ङ्निवायूनां नभसश्च द्विजोत्तमाः