मानसस्य तु देहस्य अनन्तस्य द्विजोत्तमाः
अनन्त एष सर्वत्र एवं ज्ञानेषु पठ्यते
यः पद्मनाभनाम्ना तु तत्कार्त्स्न्येन च कीर्त्तितः
भूमौ रसातले चैव आकाशे पवने ऽनले
तथा तमसि विज्ञेय एष एव महाद्युतिः
सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः
आधाराधेयभावेन विकारास्ते ऽविकारिणः
परस्परधिकाश्चैव प्रविष्टास्ते परस्परम्
प्रागासन्नविशेषास्तु विशेषो ऽन्यविशेषणात्
गुणोपचयसारेण परिच्छेदो विशेषतः
भूतेभ्यः परतस्तेभ्यो व्यालोका सा धरा स्मृता
पात्रे महति पात्राणि यथैवान्तर्गतानि तु
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः
यावदेतानि भूतानि तावदुत्पत्तिरुच्यते
प्रत्या ख्याय तु भूतानि कार्योत्पर्त्तिन विद्यते
कारणात्मकास्तथैक स्युर्भेदा ये महदादयः
सप्तद्वीपसमुद्राड्यो याथातथ्यन वै द्विजाः
वैश्वरूप्रधानस्य परिणामैकदेशिकः
एवंभूतगणाः सप्त सन्निविष्टाः परस्परम्
एतावदेव श्रोतव्यं संनिवेशे तु पार्थेवे
तास्त्वहं परिमाणेन नं संख्यातुमिहोत्सहे
तारकासंनिवेशश्च यावद्दिव्यानुमण्डलम्
अत ऊर्ध्वं प्रवक्ष्यामि कृथिव्या वै विचक्षणाः
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
जननी सर्वभूतानां सर्वसत्त्वधरा धरा
नानानदनदीशैला नैकजातिसमाकुला
नदीनदससुद्रस्थास्तन्था क्षुद्राश्रयस्थिताः
आपो ऽनन्ता हि विज्ञेयास्तथाग्निः सर्वलोकगः
तथाकाशमनालेख्यं रम्यं नानाश्रयं स्मृतम्
आपः पृथिव्यामुदके पृथिव्युपरि संस्थिताः