गोपायति प्रजास्तत्र स्वयंभूर्जड पण्डिताः
स विष्णोः सचिवो देवः स पिता स पितामहः
षड्रसं सुमहावीर्यं भुञ्जते तु प्रजाः सदा
स्वादूदकः समुद्रस्तु समन्तात्परिवेष्ट्य तम्
काञ्चनी द्विगुणा भूमिः सर्वाह्येकशिलोपमा
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते
योजनानां सहस्राणि दश तस्योच्छ्रयः समृतः
आलोको लोकवृत्तिस्थो निरालोको ह्यलौकिकः
लोकविस्तारमात्रं तु ह्यलोकः सर्वतो बहिः
आलोकात्परतश्चापि ह्यण्डमा वृत्य तिष्ठति
भूर्लोको ऽथ भुवर्ल्लोकः स्वर्लोको ऽथ महस्तथा
एतावानेव विज्ञेयो लोकान्तश्चैव यः परः
आदितः शुक्लपक्षस्य वपुश्चाण्डस्य तद्विधम्
तिर्यगूर्ध्वमधो वापि कारणस्याव्ययात्मनः
दशाधिक्येन चान्योन्यं धारयन्ति परस्परम्
अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः
बाह्यतो घनतो यस्य तिर्यगूर्द्ध्वं तु मण्डलम्
अयोगुडनिभो वाह्नः समन्ता न्मण्डलाकृतिः
घनवातं तथाकाशो दधानः खलु तिष्ठति
महाश्च सो ऽप्यनन्तेन ह्यव्यक्तेन तु धार्यते
अनन्तम कृतात्मानमनादिनिधनं च यत्
नैकयोजनसाहस्रं विप्रकृष्टमनावृतम्
देवानामप्यविदितं व्यवहारविवर्जितम्
मर्यादायामनन्तस्य देवस्यायतनं महत्
महतो देवदेवस्य मर्यादा या व्यवस्थिताः
ते लोका इत्यभिहिता जगतस्च न संशयः
सप्तस्कन्धस्तथा वायोः सब्रह्मसदना द्विजाः
प्रमाणमेतज्जगत एष संसारसागरः
विचित्रा जगतः सा वै प्रकृतिर्ब्रह्मणः स्थिता
अतीन्द्रियेर्महाभागैः सिद्धैरपि न लक्षितः