नद्यश्चापि महापुण्या गङ्गाः सप्तविधास्तथा
इक्षुश्च वेणुका चैव गभस्तिः सप्तमी तथा
सहस्रशः समाख्याता यतो वर्षति वासवः
शक्यं वै परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः
शांशपायनविस्तीर्णो द्वीपो ऽसौ चक्रसंस्थितः
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः
वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान्
शाकद्वीपस्य विस्तारात्समेन तु समंन्ततः
वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः
धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः
विपर्ययो न तेष्वस्ति कालात्स्वाभाविकं परम्
स्वधर्मेणैव धर्म ज्ञास्ते रक्षन्ति परस्परम्
एतावदेव श्रोतव्यं शाकद्वीपनिवासिनाम्
पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः
पुष्करे पर्वतः श्रीमानेक एव महाशिलः
द्वीपस्य तस्य पूर्वर्द्धे चित्रसानुः स्थितो महान्
उर्द्धं चैव चतुस्त्रिंशत्सहस्राणि महीतलात्
स्थितो वेलासमीपे तु नवचन्द्र इवोदितः
तावदेव च विस्तीर्णः सर्वतः परिमण्डलः
एक एव महासारः सन्निवेशो द्विधा कृतः
पुष्करद्वीपविस्ताराद्विस्तीर्णो ऽसौ समन्ततः
अभितो मानसस्याथ पर्वतस्य तु मण्डले
त्स्यैवाभ्यन्तरेणापि धातकीखण्डमुच्यते
अरोगाः सुखबाहुल्या मानसीं सिद्धिमास्थिताः
अधमोत्तमा न तेष्वस्ति तुल्यास्ते रूपशीलतः
निग्रहो न च दण्डो ऽस्ति न लोभो न परिग्रहः
वर्णाश्रमौ वा वार्ता वा पाशुपाल्यं वणिक्पथः
वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च
सर्वर्त्तुसुसुखस्तत्र जराक्रमविवर्जितः