कुशद्वीपस्य विस्ताराद्द्विगुणः स तु वै स्मृतः
तस्मिन्द्वीपे नगश्रेष्ठः क्रैञ्चस्तु प्रथमो गिरिः
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः
द्विविदात्परतश्चापि पुण्डरीको महागिरिः
एते रत्नमयाः सप्त क्रैञ्चद्वीपस्य पर्वताः
परस्परेण द्विगुणा विस्तृता हर्षवर्द्धनाः
क्रैञ्चस्य कुशलो देशो वामनस्य मनोनुगः
उष्णात्परः पीवरकः पीवरादन्धकारकः
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः
तत्रापि नद्यः सप्तैव प्रतिवर्ष स्मृताः शुभाः
ख्यातिश्च पुण्डरीका च गङ्गाः सप्तविधाः स्मृताः
अभिगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः
आवृतः सर्वतः श्रीमान्क्रैञ्चद्वीपसमेन तु
तेषां निसर्गोद्वीपानामानुपूर्व्येण सर्वशः
निसर्गो यः प्रजानां तु संहारो यश्च तासु वै
शृणुध्वं तु यथातथ्यं ब्रुवतो मे यथार्थवत्
परिवार्य समुद्रं स दधिमण्डोदकं स्थितः
कुत एव च दुर्भिक्षं जराव्याधिभयं कुतः
रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु
प्रागायतः स सौवर्णो ह्युदयो नाम पर्वतः
तस्यापरेण सुमहाञ्जलधारो महागिरिः
ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह
रेवती दिवि नक्षत्रं पितामहकृतो विधिः
तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल
तस्यापरे चांबिकेयो दुर्गशैलो महागिरिः
केसरी केसरयुतो यतो वायुः प्रजापतिः
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्
अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम्
द्वीपस्य परिमाणं तु ह्रस्वदीर्घत्वमेव च
शाको नाम महोत्सेधस्तस्य पूज्या महानुगाः