ककुदः सुप्रदं नाम सप्तैतानि तु सप्तधा
ज्योतिः शान्तिस्तथा तुष्टा चन्द्रा शुक्रा विमोचनी
तासां समीपगाश्चान्याः शतशो ऽथ सहस्रशः
इत्येष संनिवेशो वः शाल्मलस्य प्रकीर्त्तितः
शाल्मलिर्विपुलस्कन्धस्तस्य नाम्ना स उच्यते
विस्तराच्छाल्मलस्वैव समे न तु समन्ततः
यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः
सप्तैव च गिरींस्तत्र वर्ण्यमानान्निबोधत
द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः
चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः
मन्दा इति ह्यपा नाम मन्दरो दारणादयम्
उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम्
पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम्
एतेषु देवगन्धर्वाः प्रजास्तु जगदीश्वराः
न तेषु दस्यवः संति म्लेच्छ जातय एव च
तत्रापि नद्यः सप्तैव धूतपापाशिवा तथा
अन्यास्ताभ्यो ऽपरिज्ञाताः शतशो ऽथ सहस्रशः
घृतोदेन कुशद्वीपो बाह्यतः परिवारितः
इत्येष सन्निवेशो वः कुशद्वीपस्य कीर्त्तितः
कुशद्वीपस्य विस्ताराद्द्विगुणः स तु वै स्मृतः
तस्मिन्द्वीपे नगश्रेष्ठः क्रैञ्चस्तु प्रथमो गिरिः
अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः
द्विविदात्परतश्चापि पुण्डरीको महागिरिः
एते रत्नमयाः सप्त क्रैञ्चद्वीपस्य पर्वताः
परस्परेण द्विगुणा विस्तृता हर्षवर्द्धनाः
क्रैञ्चस्य कुशलो देशो वामनस्य मनोनुगः
उष्णात्परः पीवरकः पीवरादन्धकारकः
मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः
तत्रापि नद्यः सप्तैव प्रतिवर्ष स्मृताः शुभाः